॥ अथ स्तोत्रम् ॥

सृष्ट्यादौ ब्रह्मणा सम्यक्पूजितः फलसिद्धये ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ १ ॥

त्रिपुरस्य वधात्पूर्वं शम्भुना सम्यगर्चितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ २ ॥

हिरण्यकशिप्वादीनां वधार्थे विष्णुनार्चितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ३ ॥

महिषस्य वधे देव्या गणनाथः प्रपूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ४ ॥

तारकस्य वधात्पूर्वं कुमारेण प्रपूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ५ ॥

भास्करेण गणेशो हि पूजितश्छविसिद्धये ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ६ ॥

शशिना कान्तिवृद्ध्यर्थं पूजितो गणनायकः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ७ ॥

पालनाय स्वतपसां विश्वामित्रेण पूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ८ ॥

इदं ऋणहरस्तोत्रं तीव्रदारिद्र्यनाशनम् ।
एकवारं पठेन्नित्यं वर्षमेकं समाहितः ॥ ९ ॥

दारिद्र्याद्दारुणान्मुक्तः कुबेरसम्पदं व्रजेत् ।
फडन्तोऽयं महामन्त्रः सार्थपञ्चदशाक्षरः ॥ १० ॥

ओं गणेश ऋणं छिन्दि वरेण्यं हुं नमः फट् ।
इमं मन्त्रं पठेदन्ते ततश्च शुचिभावनः ॥ ११ ॥

एकविंशतिसङ्ख्याभिः पुरश्चरणमीरितम् ।
सहस्रावर्तनात्सम्यक् षण्मासं प्रियतां व्रजेत् ॥ १२ ॥

बृहस्पतिसमो ज्ञाने धने धनपतिर्भवेत् ।
अस्यैवायुतसङ्ख्याभिः पुरश्चरणमीरितम् ॥ १३ ॥

लक्षमावर्तनात्सम्यग्वाञ्छितं फलमाप्नुयात् ।
भूतप्रेतपिशाचानां नाशनं स्मृतिमात्रतः ॥ १४ ॥

॥ अथ प्रयोगः ॥

अस्य श्री ऋणहर्तृगणपतिस्तोत्र महामन्त्रस्य । सदाशिव ऋषिः । अनुष्टुप् छन्दः । श्रीऋणहर्तृगणपतिर्देवता । ग्लौं बीजम् । गः शक्तिः । गं कीलकम् । मम सकल ऋणनाशने जपे विनियोगः ।

करन्यासः ।
ओं गणेश अङ्गुष्ठाभ्यां नमः ।
ओं ऋणं छिन्दि तर्जनीभ्यां नमः ।
ओं वरेण्यं मध्यमाभ्यां नमः ।
ओं हुं अनामिकाभ्यां नमः ।
ओं नमः कनिष्ठिकाभ्यां नमः ।
ओं फट् करतलकरपृष्ठाभ्यां नमः ।

षडङ्गन्यासः ।
ओं गणेश हृदयाय नमः ।
ओं ऋणं छिन्दि शिरसे स्वाहा ।
ओं वरेण्यं शिखायै वषट् ।
ओं हुं कवचाय हुम् ।
ओं नमः नेत्रत्रयाय वौषट् ।
ओं फट् अस्त्राय फट् ।

ध्यानम् –
सिन्दूरवर्णं द्विभुजं गणेशं
लम्बोदरं पद्मदले निविष्टम् ।
ब्रह्मादिदेवैः परिसेव्यमानं
सिद्धैर्युतं तं प्रणमामि देवम् ॥

लमित्यादि पञ्चपूजा ॥

॥ मन्त्रः ॥

ओं गणेश ऋणं छिन्दि वरेण्यं हुं नमः फट् ।

इति श्रीकृष्णयामलतन्त्रे उमामहेश्वरसंवादे ऋणहर्तृ गणेश स्तोत्रम् ।


Searching for a Hindu Priest, Pujari, or Pandit for Your Puja?

Book Hindu Priest, Pujari, or Pandit for your Puja Online or At Home Across the USA & India | Visit www.pujaribooking.net for Instant Booking

Runa Hartru Ganesha Stotram benefits, How to chant Runa Hartru Ganesha Stotram, Runa Hartru Ganesha Stotram lyrics in Sanskrit, Meaning of Runa Hartru Ganesha Stotram, Runa Hartru Ganesha Stotram for debt removal, History and origin of Runa Hartru Ganesha Stotram, Runa Hartru Ganesha Stotram audio download, Best time to recite Runa Hartru Ganesha Stotram, Runa Hartru Ganesha Stotram English translation, Powerful mantras similar to Runa Hartru Ganesha Stotram, Runa Hartru Ganesha Stotram significance in Hinduism, Runa Hartru Ganesha Stotram pronunciation guide, Runa Hartru Ganesha Stotram meditation techniques, Scientific explanations for Runa Hartru Ganesha Stotram effects, Runa Hartru Ganesha Stotram vs other Ganesha prayers, Runa Hartru Ganesha Stotram printable PDF, Celebrity endorsements of Runa Hartru Ganesha Stotram, Runa Hartru Ganesha Stotram YouTube videos, Runa Hartru Ganesha Stotram for business success, Runa Hartru Ganesha Stotram in different languages, Runa Hartru Ganesha Stotram mobile app, Runa Hartru Ganesha Stotram ritual items, Runa Hartru Ganesha Stotram chanting workshops near me, Runa Hartru Ganesha Stotram for students, Runa Hartru Ganesha Stotram modern interpretations, Runa Hartru Ganesha Stotram and astrology connections, Runa Hartru Ganesha Stotram success stories, Runa Hartru Ganesha Stotram expert analysis, Runa Hartru Ganesha Stotram for mental peace, Runa Hartru Ganesha Stotram festival celebrations